भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

निरस्त-अशेषविशेषव्यापि-ब्रह्मात्मप्रतिपत्त्या प्रभिन्न-समस्त-अविद्यादिग्रन्थेः जीवतः एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते, ‘अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) इत्युक्तत्वात् ‘न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तराच्च । ये पुनः मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः, तेषामेष गतिविशेष उच्यते प्रकृत-उत्कृष्टब्रह्मविद्याफलस्तुतये । किञ्चान्यत् , अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः॥

शतं चैका च हृदयस्य नाड्यः तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥१६॥

तत्र — शतं च शतसङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयात् विनिःसृताः नाड्यः सिराः; तासां मध्ये मूर्धानं भित्त्वा अभिनिःसृता निर्गता एका सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वम् आपेक्षिकम् — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २ । ८ । ९७) इति स्मृतेः — ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वम् एति भुक्त्वा भोगान् अनुपमान् ब्रह्मलोकगतान् । विष्वङ् नानागतयः अन्या नाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥१६॥

© 2023 KKP APP. All rights reserved | Design by SMDS