भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

स होवाच पितरं तत कस्मै मां दास्यसीति
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

तदेवं क्रत्वसम्पत्तिनिमित्तं पितुः अनिष्टं फलं पुत्रेण सता निवारणीयं मया आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वा इत्येवं मन्यमानः पितरम् उपगम्य स होवाच पितरम् — हे तत तात! कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसि इत्येतत् । सः एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच — कस्मै मां दास्यसि कस्मै मां दास्यसि इति । नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाच- मृत्यवे वैवस्वताय त्वा त्वां ददामि इति ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS