भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अथ पञ्चमी वल्ली

पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भः, दुर्विज्ञेयत्वाद्ब्रह्मणः —

पुरमेकादशद्वारम् अजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥१॥

पुरं पुरमिव पुरम् । द्वार-द्वारपाल-अधिष्ठात्रादि अनेकपुरोपकरणसम्पत्तिदर्शनात् शरीरं पुरम् । पुरं च सोपकरणं स्वात्मना असंहत-स्वतन्त्रस्वाम्यर्थं दृष्टम् । तथेदं पुरसामान्यात् अनेकोपकरणसंहतं शरीरं स्वात्मना असंहतराजस्थानीयस्वाम्यर्थं भवितुमर्हति । तच्च इदं शरीराख्यं पुरम् एकादशद्वारम्; एकादश द्वाराणि अस्य — सप्त शीर्षण्यानि, नाभ्या सह अर्वाञ्चि त्रीणि, शिरस्येकम् , तैः एकादशद्वारं पुरम् । कस्य ? अजस्य जन्मादिविक्रियारहितस्य आत्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसः अवक्रम् अकुटिलम् आदित्यप्रकाशवत् नित्यमेव अवस्थितम् एकरूपं चेतो विज्ञानम् अस्य इति अवक्रचेताः तस्य अवक्रचेतसः राजस्थानीयस्य ब्रह्मणः यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्य अनुष्ठानं सम्यग्विज्ञानपूर्वकम् । तं सर्वैषणाविनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानात् अभयप्राप्तेः शोकावसर-अभावात् कुतो भयेक्षा । इहैव अविद्याकृतकामकर्मबन्धनैः विमुक्तो भवति । विमुक्तश्च सन् विमुच्यते्; पुनः शरीरं न गृह्णाति इत्यर्थः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS