भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥१३॥

किञ्च, अङ्गुष्ठमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमकमिति युक्तं ज्योतिःपरत्वात् । यस्तु एवं लक्षितो योगिभिर्हृदये ईशानः भूतभव्यस्य स एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, न अन्यः तत्समः अन्यश्च जनिष्यत इत्यर्थः । अनेन ‘नायमस्तीति चैके’ (क. उ. १ । १ । २०) इत्ययं पक्षो न्यायतः अप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षणभङ्गवादश्च ॥१३॥

© 2023 KKP APP. All rights reserved | Design by SMDS