भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥१२॥

पुनरपि तदेव प्रकृतं ब्रह्म आह — अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्ति अन्तःकरणोपाधिः अङ्गुष्ठमात्रः अङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत् । पुरुषः पूर्णमनेन सर्वमिति । मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा, न तत इत्यादि पूर्ववत् ॥१२॥

© 2023 KKP APP. All rights reserved | Design by SMDS