अथ कृष्णयजुर्वेदीया काठकोपनिषत्
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥
मृत्योः प्रतिज्ञा इयम् — ते तुभ्यं प्रब्रवीमि ; यत्त्वया प्रार्थितं तत् उ मे मम वचसः निबोध बुध्यस्व एकाग्रमनाः सन् । स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान् सन् अहम् इत्यर्थः । प्रब्रवीमि तन्निबोध इति च शिष्यबुद्धिसमाधानार्थं वचनम् । अधुन अग्निं स्तौति — अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनम् इत्येतत् , अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मया उच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम् । विदुषां बुद्धौ निविष्टम् इत्यर्थः ॥१४॥
© 2023 KKP APP. All rights reserved | Design by SMDS