भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

पीतोदका जग्धतृणादुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥

कथमिति, उच्यते — पीतोदका इत्यादिना दक्षिणार्था गावो विशेष्यन्ते । पीतम् उदकं याभिः ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिः ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो यासां ताः दुग्धदोहाः । निरिन्द्रियाः प्रजनन-असमर्थाः जीर्णाः, निष्फला गावः इत्यर्थः । याः ताः एवंभूताः गाः ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत् प्रयच्छन् अनन्दाः अनानन्दाः असुखा नाम इत्येतत् । ये ते लोकाः, तान् सः यजमानः गच्छति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS