भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अथ चतुर्थी वल्ली

‘एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या’ (क. उ. १ । ३ । १२) इत्युक्तम् । कः पुनः प्रतिबन्धः अग्र्याया बुद्धेः, येन तदभावात् आत्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था वल्ली आरभ्यते; विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते, नान्यथा इति —

पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन् ॥१॥

पराञ्चि परागञ्चन्ति गच्छन्तीति, खानि खोपलक्षितानि श्रोत्रादीनि इन्द्रियाणि खानीत्युच्यन्ते । तानि पराञ्च्येव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते । यस्मात् एवंस्वभावकानि तानि व्यतृणत् हिंसितवान् हननं कृतवानित्यर्थः । कोऽसौ ? स्वयम्भूः परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात् पराङ् पराग्रूपान् अनात्मभूतान् शब्दादीन् पश्यति उपलभते उपलब्धा न अ न्तरात्मन् न अन्तरात्मानमित्यर्थः —

एवंस्वभावेऽपि सति लोकस्य कश्चित् नद्याः प्रतिस्रोतःप्रवर्तनमिव धीरः धीमान्विवेकी प्रत्यगात्मानं प्रत्यक् च असौ आत्मा च इति प्रत्यगात्मा । प्रतीची एव आत्मशब्दो रूढो लोके, नान्यत्र । व्युत्पत्तिपक्षेऽपि तत्रैव आत्मशब्दो वर्तते ; ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मेति कीर्त्यते’ ; इति आत्मशब्दव्युत्पत्तिस्मरणात् । तं प्रत्यगात्मानं स्वस्वभावम् ऐक्षत् अपश्यत् पश्यतीत्यर्थः, छन्दसि काल-अनियमात् । कथं पश्यतीति, उच्यते — आवृत्तचक्षुः आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकम् इन्द्रियजातम् अशेषविषयात् यस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणं च एकस्य सम्भवति । किमिच्छन्पुनः इत्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीति, उच्यते । अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावताम् इच्छन् आत्मनः इत्यर्थः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS