अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यत्तावत्स्वाभाविकं परागेव अनात्मदर्शनं तदात्मदर्शनस्य प्रतिबन्धकारणम् अविद्या तत्प्रतिकूलत्वात्, या च परागेव अविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥२॥
पराचः— बहिर्गतानेव कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बालाः अल्पप्रज्ञाः ते तेन कारणेन मृत्योः अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगवियोगलक्षणम् । अनवरतं जन्म-मरण-जरा-रोगाद्यनेकानर्थव्रातं प्रतिपद्यन्त इत्यर्थः । यत एवम्, अथ तस्मात् धीराः विवेकिनः प्रत्यगात्मस्वरूपावस्थानलक्षणम् अमृतत्वं ध्रुवं विदित्वा । देवाद्यमृतत्वं हि अध्रुवम्, इदं तु प्रत्यगात्मस्वरूपावस्थानलक्षणं ध्रुवम्, ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः । तदेवंभूतं कूटस्थम् अविचाल्यम् अमृतत्वं विदित्वा अध्रुवेषु सर्वपदार्थेषु अनित्येषु निर्धार्य, ब्राह्मणा इह संसारेऽनर्थप्राये न प्रार्थयन्ते किञ्चिदपि प्रत्यगात्मदर्शनप्रतिकूलत्वात् । पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्येव इत्यभिप्रायः ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS