अथ कृष्णयजुर्वेदीया काठकोपनिषत्
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥१२॥
बुद्ध्यादिचेष्टाविषयं चेद्ब्रह्म ’इदं तत्’ इति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावात् अनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं च असदिति । अतश्च अनर्थको योगः अनुपलभ्यमानत्वाद्वा न अस्तीत्युपलब्धव्यं ब्रह्म इत्येवं प्राप्ते, इदमुच्यते । सत्यम् । नैव वाचा न मनसा न चक्षुषा न अन्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि सर्वविशेषरहितोऽपि जगतो मूलम् इत्यवगतत्वात् अस्त्येव, कार्यप्रविलापनस्य अस्तित्वनिष्ठत्वात् । तथा हि इदं कार्यं सौक्ष्म्यतारतम्यपारम्पर्येण अनुगम्यमानं सद्बुद्धिनिष्ठामेव अवगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्प्रत्ययगर्भा एव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोः याथात्म्यावगमे । मूलं चेज्जगतो न स्यात् असदन्वितमेव इदं कार्यम् असत् इत्येव गृह्येत, न तु एतदस्ति ; ’सत्’ सदित्येव तु गृह्यते ; यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्मात् जगतो मूलम् आत्मा अस्ति इत्येव उपलब्धव्यः । कस्मात् ? अस्तीति ब्रुवतः अस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूलमात्मा निरन्वयमेव इदं कार्यम् अभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्वतः उपलभ्यते ; न कथञ्चन उपलभ्यते इत्यर्थः ॥१२॥
© 2023 KKP APP. All rights reserved | Design by SMDS