अथ कृष्णयजुर्वेदीया काठकोपनिषत्
नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥
किञ्च, नित्यः अविनाशी नित्यानाम् अविनाशिनाम् । चेतनः चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् । अग्निनिमित्तमिव दाहकत्वम् अनग्नीनाम् उदकादीनाम् आत्मचैतन्यनिमित्तमेव चेतयितृत्वम् अन्येषाम् । किञ्च, स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रयच्छति इत्येतत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूता एव स्यात् । न इतरेषाम् अनेवंविधानाम् ॥१३॥
© 2023 KKP APP. All rights reserved | Design by SMDS