भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥

किञ्च, न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्यचित्तृप्तिकरो दृष्टः । यदि नाम अस्माकं वित्ततृष्णा स्यात् , लप्स्यामहे प्राप्स्यामहे वित्तम् , अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम् । जीवितमपि तथैव — जीविष्यामः यावत् याम्ये पदे त्वम् ईशिष्यसि ईशिष्यसे प्रभुः स्याः । कथं हि मर्त्यः त्वया समेत्य अल्पधनायुर्भवेत् ? वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ॥२७॥

© 2023 KKP APP. All rights reserved | Design by SMDS