अथ कृष्णयजुर्वेदीया काठकोपनिषत्
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥
किञ्चान्यत् । न दुश्चरितात् प्रतिषिद्धात् श्रुतिस्मृत्यविहितात् पापकर्मणः अविरतः अनुपरतः । नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः । नापि असमाहितः अनेकाग्रमनाः विक्षिप्तचित्तः । समाहितचित्तोऽपि सन् समाधानफलार्थित्वात् नापि अशान्तमानसः व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतमात्मानम् आप्नुयात् , यस्तु दुश्चरितात् विरतः इन्द्रियलौल्याच्च, समाहितचित्तः समाधानफलादपि उपशान्तमानसश्च् आचार्यवान् प्रज्ञानेन एवं यथोक्तम् आत्मानं प्राप्नोति इत्यर्थः ॥२४॥