अथ कृष्णयजुर्वेदीया काठकोपनिषत्
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥
अत्र उत्तरमिदम् — भाति च विभाति च इति । कथम् ? न तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति । तत् ब्रह्म न प्रकाशयति इत्यर्थः । तथा न चन्द्रतारकम्, न इमाः विद्युतो भान्ति, कुतः अयम् अस्मद्दृष्टिगोचरः अग्निः । किं बहुना ? यदिदम् आदित्यादिकं भाति तत् तमेव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनु दीप्यते । यथा जलोल्मुकादि अग्निसंयोगात् अग्निं दहन्तम् अनु दहति न स्वतः, तद्वत् । तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति । यत् एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतः अवगम्यते । न हि स्वतः अविद्यमानं भासनम् अन्यस्य कर्तुं शक्यम् , घटादीनाम् अन्यावभासकत्व-अदर्शनात् भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥१५॥
इति श्रीमच्छङ्करभगवतः कृतौ
काठकोपनिषद्भाष्ये पञ्चमी वल्ली
© 2023 KKP APP. All rights reserved | Design by SMDS