भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते —

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥

न सन्दृशे सन्दर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्य उपलक्षणार्थत्वात् , पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम् । कथं तर्हि तं पश्येदिति, उच्यते — हृदा हृत्स्थया बुद्ध्या, मनीषा मनसः सङ्कल्पादिरूपस्य ईष्टे नियन्तृत्वेन इति मनीट् , तया मनीषा विकल्पवर्जितया बुद्ध्या । मनसा मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः । तम् आत्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS