भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥६॥

अत एव मूढत्वात् न साम्परायः प्रतिभाति । सम्परेयते इति सम्परायः परलोकः, तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः । स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठते इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेषु आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेन अविवेकेन मूढं तमसा च्छन्नम् । स तु अयमेव लोकः योऽयं दृश्यमानः स्त्री-अन्न-पानादिविशिष्टः नास्ति परः अदृष्टो लोकः इत्येवं मननशीलः मानी पुनः पुनः जनित्वा वशम् अधीनताम् आपद्यते मे मृत्योर्मम । जननमरणादिलक्षणदुःखप्रबन्धारूढ एव भवति इत्यर्थः ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS