भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥५॥

स्यान्मतं प्राणापानाद्यपगमादेव इदं विध्वस्तं भवति न तु व्यतिरिक्तात्मापगमात्, प्राणादिभिरेव इह मर्त्यो जीवतीति; नैतदस्ति — न प्राणेन न अपानेन चक्षुरादिना वा मर्त्यः मनुष्यो देहवान् कश्चन जीवति न कोऽपि जीवति । न हि एषां परार्थानां संहत्यकारित्वात् जीवनहेतुत्वम् उपपद्यते । स्वार्थेन असंहतेन परेण संहतानाम् अवस्थानं न दृष्टं केनचित् अप्रयुक्तं यथा गृहादीनां लोके; तथा प्राणादीनामपि संहतत्वात् भवितुमर्हति । अत इतरेण तु इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तः जीवन्ति प्राणान् धारयन्ति । यस्मिन् संहतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ यस्य असंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्धः इत्यभिप्रायः ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS