अथ कृष्णयजुर्वेदीया काठकोपनिषत्
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥
कस्मात् ? न हि नरेण मनुष्येण अवरेण प्रोक्तः अवरेण हीनेन प्राकृतबुद्धिना इत्येतत् । उक्तः एषः आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् बहुधा, अस्ति-नास्ति कर्ता-अकर्ता शुद्धः-अशुद्धः इत्यादि अनेकधा चिन्त्यमानः वादिभिः ॥
कथं पुनः सुविज्ञेय इति, उच्यते — अनन्यप्रोक्ते अनन्येन अपृथग्दर्शिना आचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्ते उक्ते आत्मनि गतिः, अनेकधा अस्तिनास्ति इत्यादिलक्षणा चिन्ता गतिः, अत्र अस्मिन्नात्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितरूपत्वात् आत्मनः । अथवा स्वात्मभूते अनन्यस्मिन् आत्मनि प्रोक्ते अनन्यप्रोक्ते गतिः अत्र अन्यावगतिर्नास्ति ज्ञेयस्य अन्यस्य अभावात् । ज्ञानस्य हि एषा परा निष्ठा यत् आत्मैकत्वविज्ञानम् । अतः गन्तव्याभावात् न गतिः अत्र अवशिष्यते संसारगतिर्वा अत्र नास्ति अनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात् तद्विज्ञानफलस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्मभूतेन आचार्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अनवबोधः अपरिज्ञानम् अत्र नास्ति । भवत्येव अवगतिः तद्विषया श्रोतुः ’तदनन्योऽहम्’ इति आचार्यस्य इव इत्यर्थः । एवं सुविज्ञेयः आत्मा आगमवता आचार्ये अनन्यतया प्रोक्तः । इतरथा अणीयान् अणुतरः अणुप्रमाणादपि सम्पद्यत आत्मा । अतर्क्यम् अतर्क्यः, अणुप्रमाणो न तर्क्यः स्वबुद्ध्यभ्यूहेन केवलेन तर्केण । तर्क्यमाणे अणुपरिमाणे केनचित्स्थापिते आत्मनि ततोऽणुतरम् अन्यः अभ्यूहति ततोऽपि अन्योऽणुतरमिति । न हि तर्कस्य निष्ठा क्वचिद्विद्यते ॥८॥
© 2023 KKP APP. All rights reserved | Design by SMDS