अथ कृष्णयजुर्वेदीया काठकोपनिषत्
विद्यास्तुत्यर्थोऽयम् आख्यायिकार्थोपसंहारः अधुना उच्यते —
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥
मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलमित्येतत् । नचिकेताः अथ वरप्रदानात् मृत्योः । लब्ध्वा प्राप्य इत्यर्थः । किम् ? ब्रह्म प्राप्तोऽभूत् मुक्तः अभवदित्यर्थः । कथम् ? विद्याप्राप्त्या विरजः विगतरजाः विगतधर्माधर्मः विमृत्युः विगतकाम-अविद्यश्च सन् पूर्वमित्यर्थः ॥
न केवलं नचिकेता एव, अन्योऽपि य एवं नचिकेतोवत् आत्मवित् अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेव इत्यभिप्रायः । न अन्यद्रूपम् अप्रत्यग्रूपम् । तदेवम् अध्यात्मम् एवम् उक्तेन प्रकारेण वेद विजानातीति एवंवित्, सोऽपि विरजाः सन् ब्रह्म प्राप्य विमृत्युर्भवति इति वाक्यशेषः ॥१८॥
अथ शिष्याचार्ययोः प्रमादकृत-अन्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्था इयं शान्तिः उच्यते —
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ १९ ॥
ओम् शान्तिः शान्तिः शान्तिः
सह नौ आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः ? स एव परमेश्वरः उपनिषत्प्रकाशितः । किञ्च, सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैव आवां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै । किञ्च, तेजस्विनौ तेजस्विनोः आवयोः यत् अधीतं तत् स्वधीतमस्तु । अथवा, तेजस्वि नौ आवाभ्यां यत् अधीतं तदतीव तेजस्वि वीर्यवदस्तु इत्यर्थः । मा विद्विषावहै शिष्याचार्यौ अन्योन्यं प्रमादकृत-अन्याय-अध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिः इति त्रिर्वचनं सर्वदोषोपशमनार्थम् ॥
इति श्रीमच्छङ्करभगवतः कृतौ
काठकोपनिषद्भाष्ये षष्ठी वल्ली
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्यम्
© 2023 KKP APP. All rights reserved | Design by SMDS