अथ कृष्णयजुर्वेदीया काठकोपनिषत्
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥
प्रागेकत्वविज्ञानात् आचार्यागमसंस्कृतेन मनसा एव इदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यदस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि । यस्तु पुनरविद्यातिमिरदृष्टिं न मुञ्चति इह ब्रह्मणि नाना इव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन् इत्यर्थः ॥११॥