अथ कृष्णयजुर्वेदीया काठकोपनिषत्
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥११॥
महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतो बीजभूतम् अव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृताकाशादि-नामवाच्यं परमात्मनि ओतप्रोतभावेन समाश्रितं वटकणिकायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात् प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुषः सर्वपूरणात् । ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह — पुरुषान्न परं किञ्चिदिति । यस्मान्नास्ति पुरुषात् चिन्मात्रघनात् परं किञ्चिदपि वस्त्वन्तरम्, तस्मात् स् सूक्ष्मत्व-महत्त्व-प्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् । अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् । अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः, ‘यद्गत्वा न निवर्तन्ते’ (भ. गी. १५ । ६) इति स्मृतेः ॥११॥
© 2023 KKP APP. All rights reserved | Design by SMDS