भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥

इदं श्रुतेर्वचनम् — लोकादिं लोकानामादिं प्रथमशरीरित्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान् मृत्युः तस्मै नचिकेतसे । किञ्च, याः इष्टकाः चेतव्याः स्वरूपेण यावतीर्वा सङ्ख्यया यथा वा चीयते अग्निः येन प्रकारेण सर्वमेतदुक्तवान् इत्यर्थः । स च अपि नचिकेताः तत् मृत्युना उक्तं प्रत्यवदत् यथावत्प्रत्ययेन अवदत् प्रत्युच्चारितवान् । अथ अस्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेव आह वरत्रयव्यतिरेकेण अन्यं वरं दित्सुः ॥१५॥

© 2023 KKP APP. All rights reserved | Design by SMDS