भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

तं ह कुमारं सन्तं दक्षिणासु नीयमानासु
श्रद्धाऽऽविवेश सोऽमन्यत ॥ २ ॥

तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तप्रजननशक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितुः हितकामप्रयुक्ता आविवेश प्रविष्टवती । कस्मिन्काले इति, आह — ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेन उपनीयमानासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत ॥

© 2023 KKP APP. All rights reserved | Design by SMDS