अथ कृष्णयजुर्वेदीया काठकोपनिषत्
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥
त्वं तु कामस्य आप्तिं समाप्तिम् , अत्र हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्म-अधिभूत- अधिदैवादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्वात्, क्रतोः उपासनायाः फलं हैरण्यगर्भं पदम्, अनन्त्यम् आनन्त्यम्, अभयस्य च पारं परां निष्ठाम्, स्तोमं स्तुत्यं महत् अणिमाद्यैश्वर्यादि-अनेकगुणसंहतम्, स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत्, उरुगायं विस्तीर्णां गतिम्, प्रतिष्ठां स्थितिम् आत्मनः अनुत्तमामपि दृष्ट्वा धृत्या धैर्येण धीरः नचिकेतः, धीमान् बुद्धिमान्सन् अत्यस्राक्षीः परमेव आकाङ्क्षन् अतिसृष्टवानसि सर्वमेतत्संसारभोगजातम् । अहो बत अनुत्तमगुणोऽसि ॥११॥
© 2023 KKP APP. All rights reserved | Design by SMDS