भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

पुनरपि तुष्टः आह —

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥

जानाम्यहं शेवधिः निधिः कर्मफललक्षणः निधिरिव प्रार्थ्यत इति । असौ अनित्यम् अनित्यः इति जानामि । न हि यस्मात् अनित्यैः अध्रुवैः यत् नित्यं ध्रुवम् , तत् प्राप्यते परमात्माख्यः शेवधिः । यस्तु अनित्यसुखात्मकः शेवधिः, स एव अनित्यैर्द्रव्यैः प्राप्यते हि यतः, ततः तस्मात् मया जानतापि नित्यम् अनित्यसाधनैः प्राप्यत इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतोऽग्निः निर्वर्तितः इत्यर्थः । तेन अहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवानस्मि ॥१०॥

© 2023 KKP APP. All rights reserved | Design by SMDS