अथ कृष्णयजुर्वेदीया काठकोपनिषत्
कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति, उच्यते —
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥६॥
इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात् केवलाच्चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकताम् , तथा तेषामेव इन्द्रियाणाम् उदयास्तमयौ च उत्पत्तिप्रलयौ जाग्रत्स्वप्नावस्थाप्रतिपत्त्या न आत्मन इति मत्वा ज्ञात्वा विवेकतो धीरः धीमान् न शोचति, आत्मनो नित्यैकस्वभावस्य अव्यभिचारात् शोककारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरम् ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) इति ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS