अथ कृष्णयजुर्वेदीया काठकोपनिषत्
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥३॥
यद्विज्ञानात् न किञ्चिदन्यत्प्रार्थयन्ते ब्राह्मणाः, कथं तदधिगम इति, उच्यते — येन विज्ञानस्वभावेन आत्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् मैथुननिमित्तान् सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धिर्लोकस्य आत्मना देहादिविलक्षणेन अहं विजानामीति । देहादिसङ्घातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति । ननु देहादिसङ्घातस्यापि शब्दादिस्वरूपत्व-अविशेषात् विज्ञेयत्व-अविशेषाच्च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपादीन् विजानीयात् , तर्हि बाह्या अपि रूपादयः अन्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति ।
तस्मात् देहादिलक्षणांश्च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेन आत्मना विजानाति लोकः । यथा येन लोहो दहति सः अग्निरिति तद्वत् । आत्मनः अविज्ञेयम् किम् अत्र अस्मिंल्लोके परिशिष्यते न किञ्चित्परिशिष्यते सर्वमेव तु आत्मना विज्ञेयम्, यस्यात्मनः अविज्ञेयं न किञ्चित्परिशिष्यते, स आत्मा सर्वज्ञः । एतद्वै तत् । किं तत् यन्नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्यः अन्यत् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वै एतत् अधिगतमित्यर्थः ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS