भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥

किञ्च, स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्समः अभ्यधिको वा अन्योऽस्ति । वशी, सर्वं हि अस्य जगद्वशे वर्तते । कुतः ? सर्वभूतान्तरात्मा । यत एकमेव सत् एकरसमात्मानं विशुद्धविज्ञानघनरूपं नामरूपाद्यशुद्ध-उपाधिभेदवशेन बहुधा अनेकप्रकारेण यः करोति स्वात्मसत्तामात्रेण अचिन्त्यशक्तित्वात्, तत् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेण अभिव्यक्तमित्येतत्— न हि शरीरस्य आधारत्वम् आत्मनः, आकाशवत् अमूर्तत्वात्; आदर्शस्थं मुखमिति यद्वत् — तमेतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयः अनुपश्यन्ति आचार्यागमोपदेशम् अनु साक्षादनुभवन्ति धीराः विवेकिनः, तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, न इतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतमपि, अविद्याव्यवधानात् ॥१२॥

© 2023 KKP APP. All rights reserved | Design by SMDS