अथ कृष्णयजुर्वेदीया काठकोपनिषत्
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥४॥
तच्च इह जीवन्नेव चेत् यदि अशकत् शक्तः सन् जानाति इत्येतत् , भयकारणं ब्रह्म बोद्धुम् अवगन्तुम् , प्राक् पूर्वं शरीरस्य विस्रसः अवस्रंसनात् पतनात् संसारबन्धनात् विमुच्यते । न चेदशकत् बोद्धुम्, ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति ; शरीरं गृह्णाति इत्यर्थः ॥४॥