भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरीर-रथ-आकर्षणसामान्यात् । तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन् विषयान् विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतम् आत्मानं भोक्ता इति संसारी इति आहुः मनीषिणः विवेकिनः । न हि केवलस्य आत्मनो भोक्तृत्वमस्ति; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्य अभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्य आत्मतया प्रतिपत्तिः उपपद्यते, नान्यथा, स्वभाव-अनतिक्रमात् ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS