अथ कृष्णयजुर्वेदीया काठकोपनिषत्
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥४॥
‘तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते’ इति ह्युक्तम् ; तत्कस्मात् ? यतः दूरं दूरेण महता अन्तरेण एते विपरीते अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात् तमःप्रकाशौ इव । विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेन इत्येतत् । के ते इति, उच्यते । या च अविद्या प्रेयोविषया, विद्या इति च श्रेयोविषया ज्ञाता निर्ज्ञाता अवगता पण्डितैः । तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वाम् अहं मन्ये । कस्मात् ? यस्मात् अविद्वद्बुद्धिप्रलोभिनः कामाः अप्सरःप्रभृतयः बहवोऽपि त्वा त्वां न अलोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गात् आत्मोपभोग-अभिवाञ्छासम्पादनेन । अतो विद्यार्थिनं श्रेयोभाजनं मन्ये इत्यभिप्रायः ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS