अथ कृष्णयजुर्वेदीया काठकोपनिषत्
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२ ॥
एवमुक्तो नचिकेता आह — देवैरत्रापि विचिकित्सितं किल इति भवतः एव नः श्रुतम् । त्वं च मृत्यो, यत् यस्मात् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि । अतः पण्डितैरपि अवेदनीयत्वात् वक्ता च अस्य धर्मस्य त्वादृक् त्वत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि । अयं तु वरो निःश्रेयसप्राप्तिहेतुः । अतः न अन्यः वरः तुल्यः सदृशः अस्ति एतस्य कश्चिदपि । अनित्यफलत्वादन्यस्य सर्वस्य एव इत्यभिप्रायः ॥२२॥