अथ कृष्णयजुर्वेदीया काठकोपनिषत्
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥
किमयम् एकान्ततो निःश्रेयससाधन-आत्मज्ञानार्हो न वा इत्येतत्परीक्षणार्थम् आह — देवैरपि अत्र एतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् । न हि सुविज्ञेयं सुष्ठु विज्ञेयम् असकृच्छ्रुतमपि प्राकृतैर्जनैः, यतः अणुः सूक्ष्मः एषः आत्माख्यः धर्मः । अतः अन्यम् असन्दिग्धफलं वरं नचिकेतः, वृणीष्व । मा मां मा उपरोत्सीः उपरोधं मा कार्षीः अधमर्णम् इव उत्तमर्णः । अतिसृज विमुञ्च एनं वरं मा मां प्रति ॥२१॥