भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥३॥

कथं तद्भयात् जगद्वर्तत इति, आह — भयात् भीत्या अस्य परमेश्वरस्य अग्निः तपति ; भयात्तपति सूर्यः, भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः । न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेत् वज्रोद्यतकरवत् न स्यात् , स्वामिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS