भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥

सः एवमुक्तः पुत्रः एकान्ते परिदेवयाञ्चकार । कथमिति, उच्यते — बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्यादिवृत्त्या इत्यर्थः । मध्यमानां च बहूनां मध्यमः मध्यमया एव वृत्त्या एमि । न अधमया कदाचिदपि । तमेवं विशिष्टगुणमपि पुत्रं माम् ‘मृत्यवे त्वा ददामि’ इत्युक्तवान् पिता । सः किंस्वित् यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत्कर्तव्यम् अद्य ? नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशात् उक्तवान् पिता । तथापि तत्पितुर्वचो मृषा मा भूदिति ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS