अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥८॥
अव्यक्तात्तु परः पुरुषः व्यापकः, व्यापकस्यापि आकाशादेः सर्वस्य कारणत्वात् । अलिङ्गः लिङ्ग्यते गम्यते येन तल्लिङ्गं बुद्ध्यादि, तदविद्यमानं यस्य सोऽयम् अलिङ्गः एव च ; सर्वसंसारधर्मवर्जितः इत्येतत् । यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिः, जीवन्नेव ; पतितेऽपि शरीरे अमृतत्वं च गच्छति । सः अलिङ्गः परः अव्यक्तात् पुरुषः इति पूर्वेणैव सम्बन्धः ॥८॥
© 2023 KKP APP. All rights reserved | Design by SMDS