भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥

ये तु संसारभाजो जनाः, अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमानाः वेष्ट्यमानाः पुत्रपश्वादितृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलाश्चेति मन्यमानाः ते दन्द्रम्यमाणाः अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तः जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति मूढाः अविवेकिनः अन्धेनैव दृष्टिविकलेनैव नीयमानाः विषमे पथि यथा बहवः अन्धाः महान्तम् अनर्थम् ऋच्छन्ति, तद्वत् ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS