भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥

तत्र यः उपाधिकृतः संसारी विद्याविद्ययोरधिकृतः मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते— तत्र आत्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानीहि ; शरीरं रथम् एव तु रथबद्धहयस्थानीयैः इन्द्रियैः आकृष्यमाणत्वात् शरीरस्य । बुद्धिं तु अध्यवसायलक्षणां सारथिं विद्धि; बुद्धिनेतृप्रधानत्वात् शरीरस्य, सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण । मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रशनामेव विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनया इव अश्वाः ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS