भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥

किञ्च, अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः । विस्रंसनशब्दार्थमाह — देहाद्विमुच्यमानस्य इति । किमत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते; अत्र देहे पुरस्वामिविद्रवण इव पुरवासिनां यस्य आत्मनः अपगमे क्षणमात्रात् कार्यकरणकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्धः आत्मा ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS