अथ कृष्णयजुर्वेदीया काठकोपनिषत्
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥
अन्यथा दुर्विज्ञेयोऽयम् आत्मा कामिभिः प्राकृतपुरुषैः यस्मात् —
आसीनः अवस्थितः अचल एव सन् दूरं व्रजति शयानः याति सर्वतः, एवम् असौ आत्मा देवः मदामदः समदः अमदश्च सहर्षः अहर्षश्च विरुद्धधर्मवान् अतः अशक्यत्वात् तुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य सुविज्ञेयोऽयमात्मा स्थितिगति-नित्यानित्यादि-विरुद्ध-अनेकधर्मोपाधिकत्वात् विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत् कस्यचिदवभासते । अतो दुर्विज्ञेयत्वं दर्शयति — कस्तं मदन्यो ज्ञातुमर्हतीति । करणानामुपशमः शयनं करणजनितस्य एकदेशविज्ञानस्य उपशमः शयानस्य भवति । यदा च एवं केवलसामान्यविज्ञानत्वात् सर्वतो याति इव, यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मनआदिगतिषु तदुपाधिकत्वात् दूरं व्रजतीव । स च इहैव वर्तते ॥२१॥
© 2023 KKP APP. All rights reserved | Design by SMDS