भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥१३॥

तस्मात् अपोह्य असद्वादिपक्षम् आसुरम् अस्तीत्येव आत्मा उपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितः अविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः, तदा तस्य निरुपाधिकस्य अलिङ्गस्य सदसदादि-प्रत्ययविषयत्ववर्जितस्य आत्मनः तत्त्वभावो भवति । तेन च रूपेण आत्मा उपलब्धव्यः इत्यनुवर्तते ॥

तत्राप्युभयोः सोपाधिकनिरुपाधिकयोः अस्तित्वतत्त्वभावयोः — निर्धारणार्था षष्ठी—पूर्वम् अस्तीत्येवोपलब्धस्य आत्मनः सत्कार्योपाधिकृत-अस्तित्वप्रत्ययेन उपलब्धस्य इत्यर्थः । पश्चात् प्रत्यस्तमितसर्वोपाधिरूपः आत्मनः तत्त्वभावः विदिताविदिताभ्याम् अन्यः अद्वयस्वभावः नेति नेति इति अस्थूलम् अनणु अह्रस्वम् अदृश्ये अनात्म्ये अनिरुक्ते अनिलयने इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति ।

आत्मप्रकाशनाय पूर्वम् ’अस्ति’ इत्युपलब्धवतः इत्येतत् ॥१३॥

© 2023 KKP APP. All rights reserved | Design by SMDS