भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ ८ ॥

यतश्च अकरणे प्रत्यवायः श्रूयते — आशाप्रतीक्षे, अनिर्ज्ञात-प्राप्य-इष्टार्थप्रार्थना आशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा, ते आशाप्रतीक्षे ; सङ्गतं सत्संयोगजं फलम् , सूनृतां च सूनृता हि प्रिया वाक् तन्निमित्तं च, इष्टापूर्ते इष्टं यागजं फलं पूर्तम् आरामादिक्रियाजं फलम् , पुत्रपशूंश्च पुत्रांश्च पशूंश्च सर्वान् , एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्येतत् । पुरुषस्य अल्पमेधसः अल्पप्रज्ञस्य, यस्य अनश्नन् अभुञ्जानः ब्राह्मणः गृहे वसति । तस्मात् अनुपेक्षणीयः सर्वावस्थास्वपि अतिथिः इत्यर्थः ॥ ८॥

© 2023 KKP APP. All rights reserved | Design by SMDS