अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥१५॥
तत्कथम् अतिसूक्ष्मत्वं ज्ञेयस्येति, उच्यते । स्थूला तावत् इयं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम् । तत्र एकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्व-महत्त्व-विशुद्धत्व-नित्यत्वादितारतम्यं दृष्टम् अबादिषु यावदाकाशमिति । ते गन्धादयः सर्व एव स्थूलत्वादि कारणाः शब्दान्ताः यत्र न सन्ति, किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यम् इत्येतद्दर्शयति श्रुतिः — अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवच्च यत् , एतद्व्याख्यातं ब्रह्म । अव्ययम्, यद्धि शब्दादिमत् , तद्व्येति ; इदं तु अशब्दादिमत्त्वात् अव्ययं न व्येति न क्षीयते ; अत एव च नित्यम् ; यद्धि व्येति, तदनित्यम् ; इदं तु न व्येति ; अतो नित्यम् । इतश्च नित्यम् — अनादि, अविद्यमानः आदिः कारणम् अस्य तदिदम् अनादि । यच्च आदिमत्, तत् कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि; इदं तु सर्वकारणत्वात् अकार्यम्, अकार्यत्वात् नित्यम्; न तस्य कारणमस्ति यस्मिन्प्रलीयेत । तथा अनन्तम् अविद्यमानः अन्तः कार्यम् अस्य तदनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेनापि अनित्यत्वं दृष्टम्, न च तथापि अन्तवत्त्वं ब्रह्मणः; अतोऽपि नित्यम् । महतः महत्तत्त्वात् बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात्; सर्वसाक्षि हि सर्वभूतात्मत्वात् ब्रह्म । उक्तं हि — ‘एष सर्वेषु भूतेषु’ (क. उ. १ । ३ । १२) इत्यादि । ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवत् आपेक्षिकं नित्यत्वम् । तत् एवंभूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचरात् अविद्याकामकर्मलक्षणात् प्रमुच्यते वियुज्यते ॥१५॥
© 2023 KKP APP. All rights reserved | Design by SMDS