अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥
एतच्छ्रुत्वा नचिकेताः पुनराह — यदि अहं योग्यः, (त्वम्) प्रसन्नश्चासि भगवन् —
मां प्रति अन्यत्र धर्मात्, शास्त्रीयाद्धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश्च पृथग्भूतम् इत्यर्थः । तथा अन्यत्र अधर्मात् विहित-अकरणरूपात् पापात् , तथा अन्यत्र अस्मात्कृताकृतात्, कृतं कार्यम् अकृतं कारणम् अस्मादन्यत्र । किञ्च, अन्यत्र भूताच्च अतिक्रान्तात् कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यते इत्यर्थः । यदि ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद् वद मह्यम् ॥१४॥
© 2023 KKP APP. All rights reserved | Design by SMDS