भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अथ द्वितीया वल्ली

परीक्ष्य शिष्यं विद्यायोग्यतां च अवगम्य आह —

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१॥

अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेयःप्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतः बध्नीतः । ताभ्यां विद्याविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः । प्रेयःश्रेयसोर्हि अभ्युदय-अमृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयःप्रेयःप्रयोजनकर्तव्यतया ताभ्यां बद्धः इत्युच्यते सर्वः पुरुषः । ते यद्यपि एकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वात् विरुद्धे इति अन्यतर-अपरित्यागेन एकेन पुरुषेण-सह अनुष्ठातुमशक्यत्वात् तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति । यस्तु अदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनात् नित्यात् प्रच्यवते इत्यर्थः । कोऽसौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS