भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

एवं मत्वा परिदेवनापूर्वकम् आह पितरं शोकाविष्टं किं मया उक्तमिति अनुपश्य आलोचय विभावय अनुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृपितामहादयस्तव । तान्दृष्ट्वा च तेषां वृत्तम् आस्थातुमर्हसि । वर्तमानाश्च अपरे साधवो यथा वर्तन्ते तांश्च तथा प्रतिपश्य आलोचय । न च तेषां मृषाकरणं वृत्तं वर्तमानं वा अस्ति । तद्विपरीतम् असतां च वृत्तं मृषाकरणम् । न च मृषाभूतं कृत्वा कश्चित् अजरामरो भवति ; यतः सस्यमिव मर्त्यः मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यमिव आजायते आविर्भवति पुनः ; एवमम् अनित्ये जीवलोके किं मृषाकरणेन ? पालय आत्मनः सत्यम् । प्रेषय मां यमाय इत्यभिप्रायः ॥ ६॥

© 2023 KKP APP. All rights reserved | Design by SMDS