अथ कृष्णयजुर्वेदीया काठकोपनिषत्
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
एवं भूतमपि आत्मानं शरीरमात्र-आत्मदृष्टिः हन्ता चेत् यदि मन्यते चिन्तयति इच्छति हन्तुं हनिष्यामि एनमिति योऽपि अन्यो हतः सोऽपि चेन्मन्यते हतम् आत्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम्; यतः नायं हन्ति अविक्रियत्वादात्मनः, तथा न हन्यते आकाशवत् अविक्रियत्वादेव । अतः अनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारः न आत्मज्ञस्य, श्रुतिप्रामाण्यात् न्यायाच्च धर्माधर्माद्यनुपपत्तेः ॥१९॥