भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥

कथं पुनः आत्मानं जानाति इति, उच्यते — अणोः सूक्ष्मात् अणीयान् श्यामाकादेः अणुतरः । महतो महत्परिमाणात् महीयान् महत्तरः पृथिव्यादेः ; अणु महद्वा यदस्ति लोके वस्तु, तत् तेनैव आत्मना नित्येना् आत्मवत्सम्भवति । तदात्मना विनिर्मुक्तम् असत् सम्पद्यते । तस्मात् असावेव आत्मा अणोरणीयान्महतो महीयान्, सर्वनामरूपवस्तूपाधिकत्वात् । स च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थितः इत्यर्थः । तम् आत्मानं दर्शन-श्रवण-मनन-विज्ञानलिङ्गम् अक्रतुः अकामः, दृष्टादृष्टबाह्यविषयेभ्यः उपरतबुद्धिः इत्यर्थः । यदा च एवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात् प्रसीदन्ति इत्येषां धातूनां प्रसादात् आत्मनो महिमानं कर्मनिमित्त-वृद्धिक्षयरहितं पश्यति अयमहमस्मि इति साक्षाद्विजानाति; ततो विगतशोको भवति ॥२०॥

© 2023 KKP APP. All rights reserved | Design by SMDS