भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

इदानीं सर्ववल्ली-अर्थ-उपसंहारार्थम् आह —

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये
संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेत् मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥

अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां सम्बन्धिनि हृदये संनिविष्टः यथाव्याख्यातः ; तं स्वात् आत्मीयात् शरीरात् प्रवृहेत् उद्यच्छेत् निष्कर्षेत् पृथक्कुर्यादित्यर्थः । किमिव इति, उच्यते — मुञ्जादिवेषीकाम् अन्तःस्थां धैर्येण अप्रमादेन । तं शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् विजानीयात् शुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्म इति । द्विर्वचनम् उपनिषत्परिसमाप्त्यर्थम् , इतिशब्दश्च ॥१७॥

© 2023 KKP APP. All rights reserved | Design by SMDS