शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओं यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
भाष्यभागः - यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानम् आत्मत्वेन— यथास्य देहस्य कार्यकरणसङ्घातस्य आत्मा अहं सर्वप्रत्ययसाक्षिभूतः चेतयिता केवलो निर्गुणः अनेनैव स्वरूपेण अव्यक्तादीनां स्थावरान्तानाम् अहमेव आत्मा इति सर्वभूतेषु च आत्मानं निर्विशेषं यस्तु अनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति ॥
प्राप्तस्यैव अनुवादोऽयम् ।
सर्वा हि घृणा आत्मनः अन्यद्दुष्टं
पश्यतो भवति; आत्मानमेव
अत्यन्तविशुद्धं निरन्तरं पश्यतः
न घृणानिमित्तम् अर्थान्तरमस्तीति
प्राप्तमेव— ततो न विजुगुप्सते इति ॥
© 2021 KKP APP. All rights reserved | Design by SMDS